|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.159. अध्यायः 159
Mahabharata - Drona Parva - Chapter Topics
कर्णेन पाण्डवहननं प्रतिजानानमात्मानमधिक्षिपतः कृपस्य जिह्वाच्छेदप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-159-0x(4689)(52145)
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम्।
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्॥ 7-159-1(52146)
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल।
त्रायस्व समरे कर्ण सर्वान्योधान्महारथान्॥ 7-159-2(52147)
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः।
वृतान्समन्तात्सह्क्रुद्धैर्निः श्वसद्भिरिवोरगैः॥ 7-159-3(52148)
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः।
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः॥ 7-159-4(52149)
कर्ण उवाच। 7-159-5x(4690)
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः।
तमप्याशु पराजित्य ततो हन्ताऽस्मि पाण्डवम्॥ 7-159-5(52150)
सत्यं ते प्रतिजानामि समाश्वसिहि भारत।
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान्॥ 7-159-6(52151)
जयं ते प्रतिदास्यामि वासवस्येव पावकिः।
प्रियं तव मया कार्यमिति जीवामि पार्थिव॥ 7-159-7(52152)
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः।
तस्यामोघां विमोक्ष्यामिशक्तिं शक्रविनिर्मितां॥ 7-159-8(52153)
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद।
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः॥ 7-159-9(52154)
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्।
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान्॥ 7-159-10(52155)
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान्।
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम्॥ 7-159-11(52156)
सञ्जय उवाच। 7-159-12x(4691)
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत्।
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः॥ 7-159-12(52157)
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः।
त्वया नाथेन राधेय वचसा यदि सिध्यति॥ 7-159-13(52158)
बहुशः कत्थसे कर्ण कौरवस्य समीपतः।
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा॥ 7-159-14(52159)
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि।
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन॥ 7-159-15(52160)
हियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे।
तदाऽयुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः॥ 7-159-16(52161)
विराटनगरे चापि समेताः सर्वकौरवाः।
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः॥ 7-159-17(52162)
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे।
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान्॥ 7-159-18(52163)
अब्रुवन्कर्ण युध्यस्व कत्थसे बहु सूतज।
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम्॥ 7-159-19(52164)
गर्जित्वा सूतपुत्र त्वं शारदाभ्र इवाजलः।
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते॥ 7-159-20(52165)
तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि।
आरात्पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः॥ 7-159-21(52166)
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि।
पार्थसायकविंद्धस्य दुर्लभं गर्जितं तव॥ 7-159-22(52167)
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः।
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः।
तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत्॥ 7-159-23(52168)
एवं संरुषितस्तेन तदा शारद्वतेन ह।
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत्॥ 7-159-24(52169)
शूरा गर्जन्ति सततं प्रावृषीव वलाहकाः।
फलं चाशु प्रयच्छन्ति बीजमुप्तमनूषरे॥ 7-159-25(52170)
दोषमत्र न पश्यामि शूराणां रणमूर्धनि।
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे॥ 7-159-26(52171)
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति।
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते॥ 7-159-27(52172)
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्।
हत्वा पाण्डुसुतानाजौ सकृष्णान्सहसात्वतान्।
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति॥ 7-159-28(52173)
वृथा शूरा न गर्जन्ति सजला इव तोयदाः।
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः॥ 7-159-29(52174)
सोऽहमद्य रणे यत्तौ सहितौ कृष्मपाण्डवौ।
उत्सहामि रणे जेतुं ततो गर्जामि गौतम॥ 7-159-30(52175)
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगान्।
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान्।
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम्॥ 7-159-31(52176)
कृप उवाच। 7-159-32x(4692)
मनोरथप्रलापा मे न ग्राह्यास्तव सूतज॥ 7-159-32(52177)
सदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम्।
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ॥ 7-159-33(52178)
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्।
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ॥ 7-159-34(52179)
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः।
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः॥ 7-159-35(52180)
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः।
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः॥ 7-159-36(52181)
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः।
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुर्ताः प्रहारिणः॥ 7-159-37(52182)
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः।
चन्द्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः॥ 7-159-38(52183)
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः।
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्॥ 7-159-39(52184)
येषामर्थाय संयत्तो मत्स्यराजः सहानुजः।
शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः॥ 7-159-40(52185)
बलानीको जयानीको जयाश्वो रथवाहनः।
चन्द्रोदयः समरथो विराटभ्रातरः शुभाः॥ 7-159-41(52186)
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः।
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः॥ 7-159-42(52187)
एते चान्ये च बहवो गणाः पाण्डुसुतस्य वै॥ 7-159-43(52188)
कामं खलु जगत्सर्वं सदेवासुरमानुषम्।
सयक्षराक्षसगणं सभूतभुजगद्विपम्।
निःशेषमस्त्रवीर्येण कुर्वाते भीमफल्गुनौ॥ 7-159-44(52189)
युधिष्ठिरश्च पृथिवीं निर्दहेद्धोरचक्षुषा॥ 7-159-45(52190)
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः।
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान्॥ 7-159-46(52191)
महानपनयस्त्वेष नित्यं हि तव सूतज।
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह॥ 7-159-47(52192)
सञ्जय उवाच। 7-159-48x(4693)
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ।
अब्रवीच्च तदा कर्णो गुरं शारद्वतं कृपम्॥ 7-159-48(52193)
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः।
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै॥ 7-159-49(52194)
अजय्याश्च रणे पार्था देवैरपि सवासवैः।
सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः॥ 7-159-50(52195)
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया।
मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज।
एतया निहनिष्यामि सव्यसाचिनमाहवे॥ 7-159-51(52196)
हते तु पाण्डवे कृष्णे भ्रातरश्चास्य सोदराः।
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन॥ 7-159-52(52197)
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा।
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम्॥ 7-159-53(52198)
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः।
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम॥ 7-159-54(52199)
त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे।
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे॥ 7-159-55(52200)
यद्येवं वक्ष्यसे भूयो ममाप्रियमिह द्विज।
ततस्ते खङ्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते॥ 7-159-56(52201)
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे।
भीषयन्सर्वसैन्यानि कौरवेयांश्च दुर्मते॥ 7-159-57(52202)
अत्रापि शृणु मे वाक्यं यथावद्ब्रुवतो द्विज।
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः॥ 7-159-58(52203)
दुःशासनो वृषसेनो मद्राजस्त्वमेव च।
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः॥ 7-159-59(52204)
तिष्ठेयुर्दंशिता यत्रा सर्वे युद्धविशारदाः।
जयेदेतान्नरः को नु शक्रतुल्यबलोऽप्यरिः॥ 7-159-60(52205)
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः।
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि॥ 7-159-61(52206)
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः।
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः॥ 7-159-62(52207)
दैवायत्तमहं मन्ये जयं सुबलिनामपि।
यत्र भीष्मो महाबाहुः शेते शरशताचितः॥ 7-159-63(52208)
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः।
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः॥ 7-159-64(52209)
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्।
एते चान्ये च राजानो देवैरपि सुदुर्जयाः॥ 7-159-65(52210)
निहताः समरे शूराः पाण्डवैर्बलवत्तराः।
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम॥ 7-159-66(52211)
यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज।
तेषामपि हताः शूराः शतशोऽथ सहस्रशः॥ 7-159-67(52212)
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह।
प्रभावं नात्र पाश्यामि पाण्डवानां कथञ्चन॥ 7-159-68(52213)
यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम।
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे।
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः॥ ॥ 7-159-69(52214)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकोनषष्ट्यधिकशततमोऽध्यायः॥ 159 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|